Wednesday, March 23, 2011

विघ्ननाशाय

गणनाथ पदं परमं कलये
परमात्मनि भव्यमतो विलयम्।
प्रणयेन करोमि कृतिं भुवने
रसभावलयाय भवेत्सकलम्॥
.

Friday, March 4, 2011

सूर्यकान्ता

ननु "देव दिवाकर मा त्यज मा"-
मनुतप्तहृदा *रविकान्त्यवदत्!
अनुयात्रिकया भवितव्यमत-
स्तनुरेव दिशां परिदर्शयति॥


* रविकान्ती - सूर्यकान्ती

Monday, July 26, 2010

वसन्ततिलकम्।

बाले त्वदीयवदने नयनाभिराम-
मालोक्य दन्तमुकुळं, मम चित्तटाके।
नीलोत्पलं विकसितुं त्वरयेत् कदाचि-
दालम्ब्य भावसमतां तव मन्दहासे॥

മലയാളത്തിലേക്കു പരിഭാഷപ്പെടുത്താന്‍ കൂട്ടുകാരെ ക്ഷണിക്കുന്നു..

Monday, June 28, 2010

वाचां तपः

वाक्...
तरङ्गायते।
वाक्यनद्यां प्रवहन्ती
लीना भवति विरामे
परिमाणपरिणामे
अर्थपारावारः
तस्मिन्नेव समाधिः
वाचां तपस्सार्थकता॥

Tuesday, June 8, 2010

कविवृक्षः

मूलानि गर्ते दुर्गन्धे वा
भूतानि, सर्वं पोषकायते
वृक्षाय ददाति नवनवोन्मिषताम्।

मुकुळं विकसति
परिमळं विलसति
पुष्पस्य नैव दुर्गन्धः

पोषणस्य सत्ता पुष्पिता फलिता च भवति

कविरिह वृक्षायते
जीवितस्य तथादर्शनेऽपि
दुर्गन्धवातावरणेऽपि
तत्सर्वं पोषणं मत्वा
संस्करणं कृत्वा
कवितापुष्पं विकासयेत्‌।

Friday, January 8, 2010

नूतनवर्षस्य शुभाशयाः

इथं गतानि दिवसानि सुमङ्गलानि
व्यर्थानि कानिचन दुःखविलेपितानि।
अर्थान्वयैकनिरताः परिचिन्त्य मार्गं
व्यक्तं समाविशत नूतनवत्सरेऽस्मिन्।


ഇത്ഥം ഗതാനി ദിവസാനി സുമംഗലാനി
വ്യര്‍ഥാനി കാനിചന ദുഃഖവിലേപിതാനി
അര്‍ഥാന്വയൈകനിരതാഃ പരിചിന്ത്യ മാര്‍ഗ്ഗം
വ്യക്തം സമാവിശത നൂതനവത്സരേസ്മിന്‍

Tuesday, October 20, 2009

मोदात् रोदनं वरम्!

[आमुखम्: केचन पूर्णानन्देन देवं पूजयन्ति, केचन स्वदुःखं निवेदयितुं देवं पूजयन्ति, केचन यत्किमपि वाञ्छितफललाभाय देवं पूजयन्ति। अन्ये केचन ईश्वरसाक्षात्काराय च देवोपासनां कुर्वन्ति।]


सामोदं पूजयेयं, तु विषयकुलं प्रार्थये नित्यमेवं
कृत्वाहं संप्रतिज्ञामजित! मम विभो! जीवितं यापयामि।
दृष्ट्वा मां मोदयुक्तामपि वदति जनः किं भूयाश्च दीना
देवो दीनानुकम्पी, भव तु गतिविहीना हि दीना त्वमद्य

अन्वयः
मम विभो अजित! विषयकुलं न प्रार्थये, नित्यं सामोदं पूजयेयम् इति संप्रतिज्ञां कृत्वा अहं जीवितं यपयामि। किन्तु जनः मोदयुक्तां मां दृष्ट्वा (रे, रे!) किमर्थं त्वं दीना न भूयाः? देवः दीनानुकम्पी भवति, त्वम् अपि गतिविहीना दीनदीना भव इति वदति! (धिङ् माम्)।


സാമോദം പൂജയേയം, ന തു വിഷയകുലം പ്രാര്‍ത്ഥയേ നിത്യമേവം
കൃത്വാഹം സം‌പ്രതിജ്ഞാമജിത! മമ വിഭോ! ജീവിതം യാപയാമി
ദൃഷ്ട്വാ മാം മോദയുക്താമപി വദതി ജനഃ കിം ന ഭൂയാശ്ച ദീനാ
ദേവോ ദീനാനുകമ്പീ, ഭവ തു ഗതിവിഹീനാ ഹി ദീനാ ത്വമദ്യ


കരയുന്നവര്‍ക്കു മാത്രം പാലുകൊടുക്കുന്നവനോ ഈശ്വരന്‍? കരഞ്ഞാലേ പ്രാര്‍ത്ഥന പൂര്‍ത്തിയാവൂ എന്നോ? എനിയ്ക്കു മനസ്സിലാവുന്നില്ല.