Tuesday, October 20, 2009

मोदात् रोदनं वरम्!

[आमुखम्: केचन पूर्णानन्देन देवं पूजयन्ति, केचन स्वदुःखं निवेदयितुं देवं पूजयन्ति, केचन यत्किमपि वाञ्छितफललाभाय देवं पूजयन्ति। अन्ये केचन ईश्वरसाक्षात्काराय च देवोपासनां कुर्वन्ति।]


सामोदं पूजयेयं, तु विषयकुलं प्रार्थये नित्यमेवं
कृत्वाहं संप्रतिज्ञामजित! मम विभो! जीवितं यापयामि।
दृष्ट्वा मां मोदयुक्तामपि वदति जनः किं भूयाश्च दीना
देवो दीनानुकम्पी, भव तु गतिविहीना हि दीना त्वमद्य

अन्वयः
मम विभो अजित! विषयकुलं न प्रार्थये, नित्यं सामोदं पूजयेयम् इति संप्रतिज्ञां कृत्वा अहं जीवितं यपयामि। किन्तु जनः मोदयुक्तां मां दृष्ट्वा (रे, रे!) किमर्थं त्वं दीना न भूयाः? देवः दीनानुकम्पी भवति, त्वम् अपि गतिविहीना दीनदीना भव इति वदति! (धिङ् माम्)।


സാമോദം പൂജയേയം, ന തു വിഷയകുലം പ്രാര്‍ത്ഥയേ നിത്യമേവം
കൃത്വാഹം സം‌പ്രതിജ്ഞാമജിത! മമ വിഭോ! ജീവിതം യാപയാമി
ദൃഷ്ട്വാ മാം മോദയുക്താമപി വദതി ജനഃ കിം ന ഭൂയാശ്ച ദീനാ
ദേവോ ദീനാനുകമ്പീ, ഭവ തു ഗതിവിഹീനാ ഹി ദീനാ ത്വമദ്യ


കരയുന്നവര്‍ക്കു മാത്രം പാലുകൊടുക്കുന്നവനോ ഈശ്വരന്‍? കരഞ്ഞാലേ പ്രാര്‍ത്ഥന പൂര്‍ത്തിയാവൂ എന്നോ? എനിയ്ക്കു മനസ്സിലാവുന്നില്ല.

Friday, August 21, 2009

ज्वरो वा वराहः

मोहितः वावाहने* कार्यालयं प्रति गच्छन्नासीत्। स्वच्छं शीतं च वातावरणम्। सुखदं शीघ्रं च गमनम्। शुल्कं किञ्चिदधिकं चेदपि सांक्रमिकज्वराणां करालग्रस्तेषु इदानींतनेषु कालेषु सामान्यलोकयानम्** तु रोगवाहकम् एव स्यात् इत्येव मोहितस्य अभिप्रायः। सः ससुखं वावाहने उपविश्य स्यूतात् दिनपत्रिकाम् उद्घाट्य पारायणमारभत।

"toll rises to 20" - भयङ्करी वार्ता - वराहज्वरेण*** अधिका जना म्रियमाणास्सन्ति। रोगाणवश्च संख्याविस्फोटनेन जायमानास्सन्ति। रोगाणवो वायुना वातावरणेन अतिशीघ्रं सञ्चरन्तस्सन्ति। अत्र नगर्यां तु रोगानुकूलमेव वातावरणम्। ज्वरस्य वराहावतारात्पूर्वमपि अत्रत्य जनाः शैत्येन वातावरणप्रदूषणेन च कफ-कासादिरोगाणां सहचारिणः एव खलु।

मोहितः उभयतः दृष्टवान्, सहगामिनः केचन मुखावरणं धृतवन्तः सन्ति। कोवास्य अर्थः? एते जनाः रोगवाहकाः वा? नाहं जाने। किमहं पृच्छानि? अद्य गृहं प्राप्य उष्णजलेन सिस्नासामि। अहं तु भीरुर्नास्मि, तथापि...जागरूकतया जीवनीयः किल! चिन्तामथितः आसीत् सः|
"हा..च्..च्छी.." एवं संवाहकस्य मुखनासिकावचनं श्रुत्वा
जागरितः मोहितः ’नासापुटात् समभवः किल रोगहेतु’ इति मत्वा तं दृष्टवान् चीटिकाफलकेन हस्तस्थैः धनपत्रैश्च नासिकाच्छादनं कुर्वाणं संवाहकमपश्यत्। मुखावरणं करवस्त्रं वा तस्य न स्तः। संवाहकात् स्वीकृतानि धनपत्राण्यपि सन्ति मम कोषे। किं वा कुर्याम्!
वराहज्वरो मां बाधते वा? भीतभीतस्सन् जिजीविषुः प्रार्थितवान्- " ईश्वरो रक्षतु, ब्रह्मणःनासापुटात् संभूतं विष्णॊः वराहावतारं ध्यायन्तं मां को वा रक्षेत् ब्रह्मा विष्णुर्वा महेश्वरो वा..."
---------------------------------------------------------------------------------------

*वावाहनम् - वोल्वो बस् volvo bus स्वातन्त्र्येण मया प्रयुक्तमस्ति)
**सामान्यलोकयानम् - ordinary bus
***वराहज्वरः -H1N1 fever പന്നിപ്പനി
संवाहकः - bus conductor/ ticket collector

Tuesday, July 7, 2009

विचित्रोऽयं चित्रकारः

बहवोऽत्र केरलेषु निरुद्योगिनः सन्ति। 'उद्योगं विना वृत्तिं विना कथं वा जीवनं कुर्याम? किमर्थं सृष्टिकर्ता अस्मान् एवम् असृजत्? तस्यैव कर्तव्यमस्ति वृत्तिविधानम्, सैव नो वृत्तिं दद्यात्' इति चिन्तयित्वा केचन केरलीयाः "वृत्तिं दद्यात्, वृत्तिं दद्यात्, स्रष्टा अस्मभ्यं वृत्तिं दद्यात्" एवं रूपैः *वाक्यगाथाघोषैः भगवत्समीपमगच्छन्।
तदा भगवान् सृष्टिकर्ता कर्मनिरतः आसीत्। हंसान् शुक्लवर्णैन, शुकान् हरितवर्णैन, काकान् कृष्णवर्णेन, मयूरान् तु बहुवर्णैः च चित्रयन् सःविचित्रकरस्तिष्ठति स्म।

तं दृष्ट्वा निरुद्योगिन: अचिन्तयन्-

अत्यन्तं व्य्स्तोऽयं चित्रकारः।

**येन शुक्लीकृता हंसाः
शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन
स नो वृत्तिं विधास्यति!॥


"हलो भगवन्, भवान् यदि एवंविधं व्यस्तः तर्हि किमर्थम् वयं वृत्तिविहीनाः भवाम:? अनीतिः मास्तु, वृत्तिविहीनान् निरुद्योगिनः नो वृत्तिं विदधातु" इति ते प्रख्यापितवन्तः।

"तथास्तु" इत्युक्त्वा सृष्टिकर्ता तूष्णीं स्थितवान्।

एवं भूता भगवता चित्रकाराणां सृष्टिः॥

*वाक्यगाथाघोषैः = with slogans, മുദ്രാവാക്യങ്ങളോടെ
വൃത്തിവിഹീനഃ = തൊഴിലില്ലാത്തവന്‍
** प्रसिद्धोऽयं श्लोकः| केन रचितः इति जानाति चेत् कृपया वदतु।

Tuesday, February 10, 2009

अशोकवनिकान्यायः അശോകവനികാന്യായഃ

अशोकवनिकान्यायः
सत्सु बहुषु उद्यानेषु रावणः सीताम् यत्रकुत्रापि न्यसनाय अशोकवनिकां चितवान्। विशेषः कोपि कारणः तत्र नास्ति। सः न्यायः वस्तुतः 'अशोकवनिकान्यायेन' प्रसिद्धः।

अत्र पश्यन्तां अन्यायः

शोकपाकमथ चारु नीयते
श्लोककाव्यरुचिरं मनोरमम्।
मैवरंस्त जनकात्मजेति ताम्
रावणोऽनयदशोककाननम्॥



श्लोकः काव्यं वा कथं जायेत? शोकः एव श्लोकायितः आदिकाव्यमुदभूत्। 'रामविरहेण शोकतप्ता सीता काव्यमञ्जरिं वा रचयेत्' , सा एवं न रमेत् इति चिन्तयित्वा रावणः सीताम् "अशोक"वनिकां नूनं प्रापितवान् स्यात् ।