Monday, July 26, 2010

वसन्ततिलकम्।

बाले त्वदीयवदने नयनाभिराम-
मालोक्य दन्तमुकुळं, मम चित्तटाके।
नीलोत्पलं विकसितुं त्वरयेत् कदाचि-
दालम्ब्य भावसमतां तव मन्दहासे॥

മലയാളത്തിലേക്കു പരിഭാഷപ്പെടുത്താന്‍ കൂട്ടുകാരെ ക്ഷണിക്കുന്നു..

Monday, June 28, 2010

वाचां तपः

वाक्...
तरङ्गायते।
वाक्यनद्यां प्रवहन्ती
लीना भवति विरामे
परिमाणपरिणामे
अर्थपारावारः
तस्मिन्नेव समाधिः
वाचां तपस्सार्थकता॥

Tuesday, June 8, 2010

कविवृक्षः

मूलानि गर्ते दुर्गन्धे वा
भूतानि, सर्वं पोषकायते
वृक्षाय ददाति नवनवोन्मिषताम्।

मुकुळं विकसति
परिमळं विलसति
पुष्पस्य नैव दुर्गन्धः

पोषणस्य सत्ता पुष्पिता फलिता च भवति

कविरिह वृक्षायते
जीवितस्य तथादर्शनेऽपि
दुर्गन्धवातावरणेऽपि
तत्सर्वं पोषणं मत्वा
संस्करणं कृत्वा
कवितापुष्पं विकासयेत्‌।

Friday, January 8, 2010

नूतनवर्षस्य शुभाशयाः

इथं गतानि दिवसानि सुमङ्गलानि
व्यर्थानि कानिचन दुःखविलेपितानि।
अर्थान्वयैकनिरताः परिचिन्त्य मार्गं
व्यक्तं समाविशत नूतनवत्सरेऽस्मिन्।


ഇത്ഥം ഗതാനി ദിവസാനി സുമംഗലാനി
വ്യര്‍ഥാനി കാനിചന ദുഃഖവിലേപിതാനി
അര്‍ഥാന്വയൈകനിരതാഃ പരിചിന്ത്യ മാര്‍ഗ്ഗം
വ്യക്തം സമാവിശത നൂതനവത്സരേസ്മിന്‍