बहवोऽत्र केरलेषु निरुद्योगिनः सन्ति। 'उद्योगं विना वृत्तिं विना कथं वा जीवनं कुर्याम? किमर्थं सृष्टिकर्ता अस्मान् एवम् असृजत्? तस्यैव कर्तव्यमस्ति वृत्तिविधानम्, सैव नो वृत्तिं दद्यात्' इति चिन्तयित्वा केचन केरलीयाः "वृत्तिं दद्यात्, वृत्तिं दद्यात्, स्रष्टा अस्मभ्यं वृत्तिं दद्यात्" एवं रूपैः *वाक्यगाथाघोषैः भगवत्समीपमगच्छन्।
तदा भगवान् सृष्टिकर्ता कर्मनिरतः आसीत्। हंसान् शुक्लवर्णैन, शुकान् हरितवर्णैन, काकान् कृष्णवर्णेन, मयूरान् तु बहुवर्णैः च चित्रयन् सःविचित्रकरस्तिष्ठति स्म।
तं दृष्ट्वा निरुद्योगिन: अचिन्तयन्-
अत्यन्तं व्य्स्तोऽयं चित्रकारः।
**येन शुक्लीकृता हंसाः
शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन
स नो वृत्तिं विधास्यति!॥
"हलो भगवन्, भवान् यदि एवंविधं व्यस्तः तर्हि किमर्थम् वयं वृत्तिविहीनाः भवाम:? अनीतिः मास्तु, वृत्तिविहीनान् निरुद्योगिनः नो वृत्तिं विदधातु" इति ते प्रख्यापितवन्तः।
"तथास्तु" इत्युक्त्वा सृष्टिकर्ता तूष्णीं स्थितवान्।
एवं भूता भगवता चित्रकाराणां सृष्टिः॥
*वाक्यगाथाघोषैः = with slogans, മുദ്രാവാക്യങ്ങളോടെ
വൃത്തിവിഹീനഃ = തൊഴിലില്ലാത്തവന്
** प्रसिद्धोऽयं श्लोकः| केन रचितः इति जानाति चेत् कृपया वदतु।
Showing posts with label नर्मम्। ചിത്രകാരനും പടച്ചവനും. Show all posts
Showing posts with label नर्मम्। ചിത്രകാരനും പടച്ചവനും. Show all posts
Tuesday, July 7, 2009
Subscribe to:
Posts (Atom)