Tuesday, October 20, 2009

दीनानुकम्पी ദീനാനുകമ്പി

സ്രഗ്ദ്ധരാവൃത്തത്തിലൊരു ശ്ലോകം

सामोदं पूजयेयं, न तु विषयकुलं प्रार्थये नित्यमेवं
कृत्वाहं संप्रतिज्ञामजित! मम विभो! जीवितं यापयामि।
सद्यो मां मोदयुक्तामपि वदति जनः किं न भूयाश्च दीना
देवो दीनानुकम्पी, भव तु गतिविहीना हि दीना त्वमद्य ॥



സാമോദം പൂജയേയം, ന തു വിഷയകുലം പ്രാര്‍ത്ഥയേ നിത്യമേവം
കൃത്വാഹം സം‌പ്രതിജ്ഞാമജിത! മമ വിഭോ! ജീവിതം യാപയാമി
സദ്യോ മാം മോദയുക്താമപി വദതി ജനഃ കിം ന ഭൂയാശ്ച ദീനാ
ദേവോ ദീനാനുകമ്പീ, ഭവ തു ഗതിവിഹീനാ ഹി ദീനാ ത്വമദ്യ

കരയുന്നവര്‍ക്കു മാത്രം പാലുകൊടുക്കുന്നവനോ ഈശ്വരന്‍? കരഞ്ഞാലേ പ്രാര്‍ത്ഥന പൂര്‍ത്തിയാവൂ എന്നോ? എനിയ്ക്കു മനസ്സിലാവുന്നില്ല.

Friday, August 21, 2009

ज्वरो वा वराहः

मोहितः वावाहने* कार्यालयं प्रति गच्छन्नासीत्। स्वच्छं शीतं च वातावरणम्। सुखदं शीघ्रं च गमनम्। शुल्कं किञ्चिदधिकं चेदपि सांक्रमिकज्वराणां करालग्रस्तेषु इदानींतनेषु कालेषु सामान्यलोकयानम्** तु रोगवाहकम् एव स्यात् इत्येव मोहितस्य अभिप्रायः। सः ससुखं वावाहने उपविश्य स्यूतात् दिनपत्रिकाम् उद्घाट्य पारायणमारभत।

"toll rises to 20" - भयङ्करी वार्ता - वराहज्वरेण*** अधिका जना म्रियमाणास्सन्ति। रोगाणवश्च संख्याविस्फोटनेन जायमानास्सन्ति। रोगाणवो वायुना वातावरणेन अतिशीघ्रं सञ्चरन्तस्सन्ति। अत्र नगर्यां तु रोगानुकूलमेव वातावरणम्। ज्वरस्य वराहावतारात्पूर्वमपि अत्रत्य जनाः शैत्येन वातावरणप्रदूषणेन च कफ-कासादिरोगाणां सहचारिणः एव खलु।

मोहितः उभयतः दृष्टवान्, सहगामिनः केचन मुखावरणं धृतवन्तः सन्ति। कोवास्य अर्थः? एते जनाः रोगवाहकाः वा? नाहं जाने। किमहं पृच्छानि? अद्य गृहं प्राप्य उष्णजलेन सिस्नासामि। अहं तु भीरुर्नास्ति, तथापि...जाग्रतया जीवनीयः किल! चिन्तामथितः आसीत् सः|
"हा..च्..च्छी.." एवं संवाहकस्य मुखनासिकावचनं श्रुत्वा
जागरितः मोहितः ’नासापुटात् समभवः किल रोगहेतु’ इति मत्वा तं दृष्टवान् चीटिकाफलकेन हस्तस्थैः धनपत्रैश्च नासिकाच्छादनं कुर्वाणं संवाहकमपश्यत्। मुखावरणं करवस्त्रं वा तस्य न स्तः। संवाहकात् स्वीकृतानि धनपत्राण्यपि सन्ति मम कोषे। किं वा कुर्याम्!
वराहज्वरो मां बाधते वा? भीतभीतस्सन् जिजीविषुः प्रार्थितवान्- " ईश्वरो रक्षतु, ब्रह्मणःनासापुटात् संभूतं विष्णॊः वराहावतारं ध्यायन्तं मां को वा रक्षेत् ब्रह्मा विष्णुर्वा महेश्वरो वा..."
---------------------------------------------------------------------------------------

*वावाहनम् - वोल्वो बस् volvo bus स्वातन्त्र्येण मया प्रयुक्तमस्ति)
**सामान्यलोकयानम् - ordinary bus
***वराहज्वरः -H1N1 fever പന്നിപ്പനി
संवाहकः - bus conductor/ ticket collector

Tuesday, July 7, 2009

विचित्रोऽयं चित्रकारः

बहवोऽत्र केरलेषु निरुद्योगिनः सन्ति। 'उद्योगं विना वृत्तिं विना कथं वा जीवनं कुर्याम? किमर्थं सृष्टिकर्ता अस्मान् एवम् असृजत्? तस्यैव कर्तव्यमस्ति वृत्तिविधानम्, सैव नो वृत्तिं दद्यात्' इति चिन्तयित्वा केचन केरलीयाः "वृत्तिं दद्यात्, वृत्तिं दद्यात्, स्रष्टा अस्मभ्यं वृत्तिं दद्यात्" एवं रूपैः *वाक्यगाथाघोषैः भगवत्समीपमगच्छन्।
तदा भगवान् सृष्टिकर्ता कर्मनिरतः आसीत्। हंसान् शुक्लवर्णैन, शुकान् हरितवर्णैन, काकान् कृष्णवर्णेन, मयूरान् तु बहुवर्णैः च चित्रयन् सःविचित्रकरस्तिष्ठति स्म।

तं दृष्ट्वा निरुद्योगिन: अचिन्तयन्-

अत्यन्तं व्य्स्तोऽयं चित्रकारः।

**येन शुक्लीकृता हंसाः
शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन
स नो वृत्तिं विधास्यति!॥


"हलो भगवन्, भवान् यदि एवंविधं व्यस्तः तर्हि किमर्थम् वयं वृत्तिविहीनाः भवाम:? अनीतिः मास्तु, वृत्तिविहीनान् निरुद्योगिनः नो वृत्तिं विदधातु" इति ते प्रख्यापितवन्तः।

"तथास्तु" इत्युक्त्वा सृष्टिकर्ता तूष्णीं स्थितवान्।

एवं भूता भगवता चित्रकाराणां सृष्टिः॥

*वाक्यगाथाघोषैः = with slogans, മുദ്രാവാക്യങ്ങളോടെ
വൃത്തിവിഹീനഃ = തൊഴിലില്ലാത്തവന്‍
** प्रसिद्धोऽयं श्लोकः| केन रचितः इति जानाति चेत् कृपया वदतु।

Tuesday, February 10, 2009

अशोकवनिकान्यायः അശോകവനികാന്യായഃ

अशोकवनिकान्यायः
सत्सु बहुषु उद्यानेषु रावणः सीताम् यत्रकुत्रापि न्यसनाय अशोकवनिकां चिनुतवान्। विशेषः कोपि कारणः तत्र नास्ति। सो न्यायः वस्तुतः 'अशोकवनिकान्यायेन प्रसिद्धः।

अत्र पश्यन्तां अन्यायः

शोकपाकमथ चारु नीयते
श्लोककाव्यरुचिरं मनोरमम्।
मैवरंस्त जनकात्मजेति ताम्
रावणोऽनयदशोककाननम्॥



श्लोकः काव्यं वा कथं जायेत? शोकः एव श्लोकायितः आदिकाव्यमुदभूत्। 'रामविरहेण शोकतप्ता सीता काव्यमञ्जरिं वा रचयेत्' , सा एवं न रमेत् इति चिन्तयित्वा रावणः सीताम् "अशोक"वनिकां नूनं प्रापितवान् स्यात् ।

Thursday, November 13, 2008

हे सरस्वति!

सरसभाषणमावह मन्मुखॆ

स्वरससेवनभावनया मुदा।

भवतु मे रसना तव वेदिका

नय सरस्वति वेदविदां पथि॥

विजयदशमी सरस्वतीपूजया आघोषयामः केरलेषु। अवसरेस्मिन् लिखितः श्लोकोऽयम्।



Saturday, September 15, 2007

पानम् പാനം

पिबन्ति पादैरिति कारणॆन
पानं तु निन्द्यं किल पादपानाम्?
पादाश्रितान् पान्ति सदातपस्थाः
पानेन नूनं स्तुतिमावहन्ति!


പിബന്തി പാദൈരിതി കാരണേന
പാനം തു നിന്ദ്യം കില പാദപാനാം?
പാദാശ്രിതാന്‍ പാന്തി സദാതപസ്ഥാഃ
പാനേന നൂനം സ്തുതിമാവഹന്തി!

പാനം = കുടിയ്ക്കല്‍
പിബന്തി = (അവര്‍) കുടിയ്ക്കുന്നു.
പാദപഃ എന്നാല്‍ വൃക്ഷം. പാദൈഃ പിബന്തി ഇതി പാദപാഃ [കാലുകള്‍ (വേരുകള്‍) കൊണ്ടു കുടിയ്ക്കുന്നതിനാല്‍ പാദപം]

പാനം = രക്ഷിയ്ക്കല്‍
പാന്തി = രക്ഷിയ്ക്കുന്നു.
പാദാശ്രിതാന്‍ പാന്തി = കാല്‍ക്കല്‍ അഭയം പ്രാപിക്കുന്നവരെ രക്ഷിയ്ക്കുകയാലും മരങ്ങള്‍ പാദപങ്ങള്‍. വൃക്ഷങ്ങളുടെ “പാനം” സ്തുത്യര്‍ഹം തന്നെ.

Sunday, September 9, 2007

मृत्सोपानम्! മൃത്‌സോപാനം!

एकस्मिन् ग्रामे एकः कृषकः आसीत्। तस्य एकः गर्दभः अपि आसीत्। प्रतिदिनं सूर्योदये एव उथाय गर्दभः सोत्साहं कृषकस्य साहाय्यं करोति स्म। एवं बहुकालः अतीतः। कृषकः गर्दभः च वृद्धौ जातौ।
एकदा गर्दभः (किन्चिदिव अन्धः) गृहस्य पुरतः विद्यमाने कूपे अपतत्। सः उच्चैस्तरं रुदितवान्। रॊदनध्वनिं श्रुत्वा कृषकः तत्र आगतवान् । कूपे पतितं गर्दभं च दृष्टवान्। सः चिन्तितवान्........

"गर्दभः वृद्धः जातः, एषः कूपोऽपि निर्जलः निष्प्रयॊजनः। अस्तु, एकं कार्यं करिष्यामि।"
कृषकः समीपवासीन् अपि आहूय कूपं मृत्तिकया पूरितुं साहाय्यम् अभ्यर्थितवान्। सर्वे मिलित्वा 1*कुद्दालैः मृत्तिकां कूपे क्षिप्तुं आरब्धवन्तः। गर्दभः बहुवारं रोदितवान्, परन्तु कॊऽपि तं रक्षितुं सन्नद्धः नासीत्। गर्दभस्य उपरि मृत्तिका पतन्ती आसीत्। यदा गर्दभः निरालम्बः जातः तदा तस्य बुद्धिः प्रकाशितः। सः रॊदनं समाप्य तूष्णीं स्थितवान्।
तस्य देहोपरि पतितां मृत्तिकां कूपतले पातितवान्। पुनः तूष्णीं स्थितवान्, किञ्चित्समयानन्तरं पुनः दॆहोपरि पतितां मृत्तिकां भूमौ पातितवान्, कूपतलः किञ्चित् उन्नतः जातः, गर्दभः तस्य उपरि आरूढवान् ।
एवं पुनः पुनः तूष्णीम् स्थित्वा स्वस्य देहे पतितां मृत्तिकां कूपतले पातयित्वा किञ्चिदिव उन्नते नवीने तले आरुह्य पुनः मृदागमनाय प्रतीक्षापूर्वम् स्थितवान् च।

एवमेवं समयः अतीतः।

"वृद्धगर्दभस्य शब्दः एव न श्रूयतॆ। सः मृतः स्यात्... किञ्चित् समयाभ्यन्तरे कूपनिर्मार्जनम् अपि भविष्यति। इदानीं कार्यद्वयम् अभवत्। श्लाघनीया मम बुद्धिः..." इति चिन्तयन्नासीत्, सः कृषकः।
जनाः तु केवलं मृदॆव दृष्ट्वा शीघ्रातिशीघ्रं कूपस्य स्थाने क्षिपन्तः कर्मनिरताः आसन्।
कूपस्य अधस्तात् उपरि उपरि आगतः गर्दभः एकेन *कूर्दनेन बहिः आगत्य अद्भुतस्तब्धान् जनान् आलोक्य-

"सर्वेभ्यो मम हार्दिकम् धन्यवादम्, अपुनर्मेलनाय अहं स्वछन्दं गछामि" इत्युक्त्वा वनं प्रति धावितवान्।


अस्मिन् संसारकूपे पतिताः वयं मृद्पातेन न रोदाम। मृद्पातम् सोपानायते! आत्मप्रकाशेन वयं द्रष्टुम् प्रभवामः॥ सोपानायते मृत्तिका॥

*1. कुद्दालः =കൈക്കോട്ട്, തൂമ്പാ

*2 कूर्दनम् = ചാട്ടം