Tuesday, June 8, 2010

कविवृक्षः

मूलानि गर्ते दुर्गन्धे वा
भूतानि, सर्वं पोषकायते
वृक्षाय ददाति नवनवोन्मिषताम्।

मुकुळं विकसति
परिमळं विलसति
पुष्पस्य नैव दुर्गन्धः

पोषणस्य सत्ता पुष्पिता फलिता च भवति

कविरिह वृक्षायते
जीवितस्य तथादर्शनेऽपि
दुर्गन्धवातावरणेऽपि
तत्सर्वं पोषणं मत्वा
संस्करणं कृत्वा
कवितापुष्पं विकासयेत्‌।

2 comments:

Ayurvedanarayanan said...

पोषणस्य सत्ता पुष्पिता फलिताश्च भवति.
फलिताश्चेति बहुवचनं कथम्?

ജ്യോതിര്‍മയി /ज्योतिर्मयी said...

फालिता इत्येव साधुः। धन्यवादाः महाशय! शुद्धं करोमि।

ज्योतिर्मयी।