Wednesday, March 23, 2011

विघ्ननाशाय

गणनाथ पदं परमं कलये
परमात्मनि भव्यमतो विलयम्।
प्रणयेन करोमि कृतिं भुवने
रसभावलयाय भवेत्सकलम्॥
.

1 comment:

Anant Kulkarni said...

कवयित्री प्रशन्सा
भोः ज्योतिर्मयी ,

नमोनमः ।

भवत्त्याः काव्य -प्रसव -कौशलम् प्रशन्सनीयं अस्ति ।हार्दिकं अभिनन्दनम् ।अग्रे इतो s पी मनोहरं काव्यं भवति लेखिष्यति इति दृढः विश्वासः अस्ति ।विस्तृतं पत्रं अचिरात् एव प्रेष्यते।ईश्वरः कल्याणं करोतु भवत्त्याः इति संप्रार्थ्य विरम्यते।इति लेखन सीमा ।

भावत्कः

अनन्त कुलकर्णी ,पुणे ,महाराष्ट्र