Friday, August 21, 2009

ज्वरो वा वराहः

मोहितः वावाहने* कार्यालयं प्रति गच्छन्नासीत्। स्वच्छं शीतं च वातावरणम्। सुखदं शीघ्रं च गमनम्। शुल्कं किञ्चिदधिकं चेदपि सांक्रमिकज्वराणां करालग्रस्तेषु इदानींतनेषु कालेषु सामान्यलोकयानम्** तु रोगवाहकम् एव स्यात् इत्येव मोहितस्य अभिप्रायः। सः ससुखं वावाहने उपविश्य स्यूतात् दिनपत्रिकाम् उद्घाट्य पारायणमारभत।

"toll rises to 20" - भयङ्करी वार्ता - वराहज्वरेण*** अधिका जना म्रियमाणास्सन्ति। रोगाणवश्च संख्याविस्फोटनेन जायमानास्सन्ति। रोगाणवो वायुना वातावरणेन अतिशीघ्रं सञ्चरन्तस्सन्ति। अत्र नगर्यां तु रोगानुकूलमेव वातावरणम्। ज्वरस्य वराहावतारात्पूर्वमपि अत्रत्य जनाः शैत्येन वातावरणप्रदूषणेन च कफ-कासादिरोगाणां सहचारिणः एव खलु।

मोहितः उभयतः दृष्टवान्, सहगामिनः केचन मुखावरणं धृतवन्तः सन्ति। कोवास्य अर्थः? एते जनाः रोगवाहकाः वा? नाहं जाने। किमहं पृच्छानि? अद्य गृहं प्राप्य उष्णजलेन सिस्नासामि। अहं तु भीरुर्नास्मि, तथापि...जागरूकतया जीवनीयः किल! चिन्तामथितः आसीत् सः|
"हा..च्..च्छी.." एवं संवाहकस्य मुखनासिकावचनं श्रुत्वा
जागरितः मोहितः ’नासापुटात् समभवः किल रोगहेतु’ इति मत्वा तं दृष्टवान् चीटिकाफलकेन हस्तस्थैः धनपत्रैश्च नासिकाच्छादनं कुर्वाणं संवाहकमपश्यत्। मुखावरणं करवस्त्रं वा तस्य न स्तः। संवाहकात् स्वीकृतानि धनपत्राण्यपि सन्ति मम कोषे। किं वा कुर्याम्!
वराहज्वरो मां बाधते वा? भीतभीतस्सन् जिजीविषुः प्रार्थितवान्- " ईश्वरो रक्षतु, ब्रह्मणःनासापुटात् संभूतं विष्णॊः वराहावतारं ध्यायन्तं मां को वा रक्षेत् ब्रह्मा विष्णुर्वा महेश्वरो वा..."
---------------------------------------------------------------------------------------

*वावाहनम् - वोल्वो बस् volvo bus स्वातन्त्र्येण मया प्रयुक्तमस्ति)
**सामान्यलोकयानम् - ordinary bus
***वराहज्वरः -H1N1 fever പന്നിപ്പനി
संवाहकः - bus conductor/ ticket collector

5 comments:

ഇന്‍ഡ്യാഹെറിറ്റേജ്‌:Indiaheritage said...

അത്ര മമ സന്ദേഹാനി ച ശ്രൂയതാം
വിഷ്ണോര്‍വരാഹാവതാരസ്യ അന്ത്യം ശംഭുനാ കൃതം
പരന്തു ജ്വരമപി ശംഭുനാ കൃതം ഇതി വാഗ്ഭടവചനം.

തസ്മാത്‌ വാരാഹജ്വരം വ ശംഭു ജ്വരം വാ വക്തവ്യം?

ഹൊ രണ്ടു വരി സംസ്കൃതം ഉണ്ടാക്കിയപ്പോഴേക്കും വിയര്‍ത്തു പോയി
ദൈവമേ ജ്യോതി എത്ര വിയര്‍ത്തുകാണും?

ജ്യോതിര്‍മയി /ज्योतिर्मयी said...

Dear Doctor sir,

ഹാവൂ, ഡോക്ടറെങ്കിലും വായിച്ചല്ലോ എന്റെ ‘പന്നിപ്പനിക്കഥ’. സമാധാനമായി.
പത്തുമിനിട്ടില്‍ കുറഞ്ഞസമയമേ ഞാനിതിന്റെ അടുത്തിരുന്നിട്ടുള്ളൂ ഡോക്ടര്‍, എനിയ്ക്കു പകരില്ലല്ലോ അല്ലേ.

ഇന്‍ഡ്യാഹെറിറ്റേജ്‌:Indiaheritage said...

"More than 20 million people are affected by AIDS, still nobody bothers to wear a condom, but 20 people have died of H1N1 , the whole world is fleeing behind masks"
Heard this?

അനില്‍ said...

ഞാനും വായിച്ചു, മുഴുവന്‍ മനസ്സിലാക്കിയെന്നു അവകാശപ്പെടാന്‍ പറ്റില്ലെങ്കിലും...

ജ്യോതിര്‍മയി /ज्योतिर्मयी said...

അനില്‍ ജി
സന്തോഷമായി. പ്രോത്സാഹനമായി എണ്ണുന്നു.