Sunday, September 9, 2007

मृत्सोपानम्! മൃത്‌സോപാനം!

एकस्मिन् ग्रामे एकः कृषकः आसीत्। तस्य एकः गर्दभः अपि आसीत्। प्रतिदिनं सूर्योदये एव उथाय गर्दभः सोत्साहं कृषकस्य साहाय्यं करोति स्म। एवं बहुकालः अतीतः। कृषकः गर्दभः च वृद्धौ जातौ।
एकदा गर्दभः (किन्चिदिव अन्धः) गृहस्य पुरतः विद्यमाने कूपे अपतत्। सः उच्चैस्तरं रुदितवान्। रॊदनध्वनिं श्रुत्वा कृषकः तत्र आगतवान् । कूपे पतितं गर्दभं च दृष्टवान्। सः चिन्तितवान्........

"गर्दभः वृद्धः जातः, एषः कूपोऽपि निर्जलः निष्प्रयॊजनः। अस्तु, एकं कार्यं करिष्यामि।"
कृषकः समीपवासीन् अपि आहूय कूपं मृत्तिकया पूरितुं साहाय्यम् अभ्यर्थितवान्। सर्वे मिलित्वा 1*कुद्दालैः मृत्तिकां कूपे क्षिप्तुं आरब्धवन्तः। गर्दभः बहुवारं रोदितवान्, परन्तु कॊऽपि तं रक्षितुं सन्नद्धः नासीत्। गर्दभस्य उपरि मृत्तिका पतन्ती आसीत्। यदा गर्दभः निरालम्बः जातः तदा तस्य बुद्धिः प्रकाशितः। सः रॊदनं समाप्य तूष्णीं स्थितवान्।
तस्य देहोपरि पतितां मृत्तिकां कूपतले पातितवान्। पुनः तूष्णीं स्थितवान्, किञ्चित्समयानन्तरं पुनः दॆहोपरि पतितां मृत्तिकां भूमौ पातितवान्, कूपतलः किञ्चित् उन्नतः जातः, गर्दभः तस्य उपरि आरूढवान् ।
एवं पुनः पुनः तूष्णीम् स्थित्वा स्वस्य देहे पतितां मृत्तिकां कूपतले पातयित्वा किञ्चिदिव उन्नते नवीने तले आरुह्य पुनः मृदागमनाय प्रतीक्षापूर्वम् स्थितवान् च।

एवमेवं समयः अतीतः।

"वृद्धगर्दभस्य शब्दः एव न श्रूयतॆ। सः मृतः स्यात्... किञ्चित् समयाभ्यन्तरे कूपनिर्मार्जनम् अपि भविष्यति। इदानीं कार्यद्वयम् अभवत्। श्लाघनीया मम बुद्धिः..." इति चिन्तयन्नासीत्, सः कृषकः।
जनाः तु केवलं मृदॆव दृष्ट्वा शीघ्रातिशीघ्रं कूपस्य स्थाने क्षिपन्तः कर्मनिरताः आसन्।
कूपस्य अधस्तात् उपरि उपरि आगतः गर्दभः एकेन *कूर्दनेन बहिः आगत्य अद्भुतस्तब्धान् जनान् आलोक्य-

"सर्वेभ्यो मम हार्दिकम् धन्यवादम्, अपुनर्मेलनाय अहं स्वछन्दं गछामि" इत्युक्त्वा वनं प्रति धावितवान्।


अस्मिन् संसारकूपे पतिताः वयं मृद्पातेन न रोदाम। मृद्पातम् सोपानायते! आत्मप्रकाशेन वयं द्रष्टुम् प्रभवामः॥ सोपानायते मृत्तिका॥

*1. कुद्दालः =കൈക്കോട്ട്, തൂമ്പാ

*2 कूर्दनम् = ചാട്ടം

3 comments:

drisyadrisya said...

samyak likhitam

agrE api EtadRshI likhatu

Anonymous said...

मनोहरी कथा इयम् । प्रोत्साहनादायी च । एवमेव लिखन्ती भवतु कृपया ।

Kapli said...

വായിച്ചാല്‍ മനസ്സിലാവും എന്നല്ലാതെ ഒരു വരി ഇതുപോലെ എഴുതാന്‍ ഈ ജന്മത്ത് എന്നെക്കൊണ്ടാവില്ല തീര്‍ച്ച. അഭിനന്ദനങ്ങള്‍.

അഞ്ചാം ക്ലാസ്മുതല്‍ പത്തുവരെ സംസ്കൃതം പഠിച്ചു. ഫലമോ മലയാളവും അറിയില്ല, സംസ്കൃതവും അറിയില്ല എന്നാ‍യി.