Monday, June 28, 2010

वाचां तपः

वाक्...
तरङ्गायते।
वाक्यनद्यां प्रवहन्ती
लीना भवति विरामे
परिमाणपरिणामे
अर्थपारावारः
तस्मिन्नेव समाधिः
वाचां तपस्सार्थकता॥

Tuesday, June 8, 2010

कविवृक्षः

मूलानि गर्ते दुर्गन्धे वा
भूतानि, सर्वं पोषकायते
वृक्षाय ददाति नवनवोन्मिषताम्।

मुकुळं विकसति
परिमळं विलसति
पुष्पस्य नैव दुर्गन्धः

पोषणस्य सत्ता पुष्पिता फलिता च भवति

कविरिह वृक्षायते
जीवितस्य तथादर्शनेऽपि
दुर्गन्धवातावरणेऽपि
तत्सर्वं पोषणं मत्वा
संस्करणं कृत्वा
कवितापुष्पं विकासयेत्‌।